वांछित मन्त्र चुनें

जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः । अव॑र्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ॥

अंग्रेज़ी लिप्यंतरण

janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ | avardhann indram marutaś cid atra mātā yad vīraṁ dadhanad dhaniṣṭhā ||

पद पाठ

जनि॑ष्ठाः । उ॒ग्रः । सह॑से । तु॒राय॑ । म॒न्द्रः । ओजि॑ष्ठः । ब॒हु॒लऽअ॑भि॑मानः । अव॑र्धन् । इन्द्र॑म् । म॒रुतः॑ । चि॒त् । अत्र॑ । मा॒ता । यत् । वी॒रम् । द॒धन॑त् । धनि॑ष्ठा ॥ १०.७३.१

ऋग्वेद » मण्डल:10» सूक्त:73» मन्त्र:1 | अष्टक:8» अध्याय:3» वर्ग:3» मन्त्र:1 | मण्डल:10» अनुवाक:6» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में राजधर्म कहा गया है, राजा कैसे राष्ट्र चलावे और कैसे सभावर्ग के सेनावर्ग के साथ प्रजारक्षण करे इत्यादि विषय हैं।

पदार्थान्वयभाषाः - (उग्रः) उभरे हुए बलवाला-प्रतापी (मन्दः) हर्षप्रद-आनन्ददाता (ओजिष्ठः) अत्यन्त ओजस्वी (बहुलाभिमानः) बहुत प्रकार से आत्म गौरववाला-प्रतिष्ठावान् (सहसे तुराय) अपने सैन्यबल के रक्षण के लिये और शत्रुबल का नाश करने के लिये (जनिष्ठाः) हे राजन् ! तू उत्पन्न हुआ है (इन्द्रं मरुतः-चित्-अवर्धन्) तुझ राजा को सैनिक अथवा सेनाध्यक्षादि भी बढ़ाते हैं-बढ़ावा देते हैं (अत्र माता) यहाँ राष्ट्रनिमित्त तेरी माता या राष्ट्रभूमि (यत्-वीरं-दधनत्) जिससे कि तुझ वीर को धारण करती है, (धनिष्ठा) वह अतिधन्य है या अतिधनी है ॥१॥
भावार्थभाषाः - राजा प्रतापी स्वात्मगौरववाला अत्यन्त ओजस्वी अपने बल की रक्षा और शत्रुबल का नाश करनेवाला उत्तम सैनिक और सेनाध्यक्षों से युक्त होना चाहिए ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

सूक्तेऽस्मिन् राजधर्म उच्यते, राजा कथं राष्ट्रं चालयेत् कथं च सभावर्गेण सेनावर्गेण च सह प्रजारक्षणं कुर्यादित्यादयो विषयाः सन्ति।

पदार्थान्वयभाषाः - (उग्रः) उद्गूर्णबलः प्रतापी (मन्द्रः) हर्षप्रदः-आनन्ददाता (ओजिष्ठः) अतिशयेनौजस्वी बली (बहुलाभिमानः) बहुप्रकारेणात्मानमभिमन्यमानः-प्रतिष्ठावान् (सहसे तुराय) स्वसैन्यबलरक्षणाय तथा शत्रुबलस्य नाशाय (जनिष्ठाः) हे-इन्द्र राजन् ! त्वं जायसे (इन्द्रं मरुतः-चित्-अवर्धन्) त्वां राजानं सैनिकाः-अपि “असौ या सेना मरुतः परेषामस्मानैत्यभ्योजसा स्पर्धमाना। तां विध्यत तमसापव्रतेन यथैषामन्यो अन्यं न जानात्।” [अथर्व० ३।२।६] महासेनाध्यक्षादयः “मरुतः सेनाध्यक्षादयः” [ऋ० १।३७।१२ दयानन्दः] वर्धयन्ति (अत्र माता यत्-वीरं दधनत्-धनिष्ठा) अत्र राष्ट्रनिमित्तं यतस्त्वां वीरं धारयति सा माता राष्ट्रभूमिर्वा साऽतिधन्या “धनिष्ठा अतिशयेन धनिनी” [यजु० ३।६४ दयानन्दः] ॥१॥